।। हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: ।। मम सुहृद् मित्राणि गत दिवसेषु अहं संस्कृतभाषाया: प्रसाराय संस्कृतप्रशिक्षणं दातुं मम अस्य नूतन जालपुटस्य निर्माणं कृतवान् चिन्तितवान् आसम् यत् जनानां रूचि: वर्धिष्यते अथ च सम्भवत: जना: संस्कृतं बोधितुम् अपि इच्छाप्रकटनं करिष्यन्ति । किन्तु संस्कृतं ज्ञातुं तु इच्छा नैव दृष्ट: अपितु पठितुमपि रूचि: न दृष्यते। अयि भो: पाठनं तु नास्ति एव, अहं चिन्तयामि यत् अत्र जनानां सम्भवत: आगमनम् अपि नैव भवति । एकदा तु चिन्तने आगत: यत् केवलं संस्कृते लेखनं एव चलेत्। यतोहि प्रशिक्षणाय तु न्यूनाति न्यूनं दश-पंचदश जना: तु भवेयु: एव ।। किन्तु मम एतस्य विचारस्योपरि मम केचन् भ्रात्रृणां प्रेम बलीयसी अभवत् ।। मम अस्य जालपुटस्योपरि आगमनं न्यूनजनानाम् एव भवतु किन्तु ते सन्ति संस्कृतानुरागिण: । तेषां श्रद्धा अपि अद्भुता एव । अत: अहं तेषां कृते एव संस्कृतप्रशिक्षणस्य प्रारम्भ: करोमि । अग्रिम लेखत: संस्कृतस्य प्रशिक्षणं प्रारभ्यते। भवन्त: सादरम् आमन्त्रिता: सन्ति। भवतां संस्कृतश्रद्धा चिरकालपर्यन्तं यथावत् तिष्ठेत् , इति मे श