हिन्दी भाषायां पठितुं अत्र बलाघात: करणीय:।। किंचित कालपूर्वम् एव भारतस्य चन्द्रयानेन् प्रमाणितं यत् चन्द्रे जलम् अस्ति एव। इत: पूर्वं नासावैज्ञानिका: एतस्य अन्वेषणं बहु वारं कृतवन्त: किन्तु चन्द्रे जलम् अस्ति इत्येतस्मिन् विषये ते किमपि वक्तुं न शक्तवन्त: । अस्य विषयस्य अन्वेषणं कर्तुं भारतदेश: चन्द्रयानम् इति कश्चन् गगननौका प्रेषितवान् तथा सप्रमाणेन् चन्द्रे जलम् अस्ति इति रहस्योद्घाटनं कृतवान् । य: विषय: अद्य नूतन वैज्ञानिकै: उद्धृत: प्रमाणित: च स: विषय: अस्माकं भारतस्य एव खगोलविद: सहस्राधिकेभ्य: वर्षेभ्य: (6तमे शताब्दे:) पूर्वम् एव स्वग्रन्थे लिखितवान् आसीत्। तदा गगनस्य अटनं कर्तुं गगननौका: न आसन्, नैव कश्चित् अन्यं साधनम् एव आसीत् अस्य विषयस्य ज्ञानं कर्तुम्। किन्तु तदा यत् वचनं प्रमाणितं तद् वचनम् अद्य आगत्य सर्वै: स्वीकृतम्। प्रशिद्ध: भारतीय: खगोलविद: वाराहमिहिर: चन्द्रे प्रकाशस्योत्पत्ति: कथम् इति कथयन् वदति- ''सलिलमये शशिनि खेर्दीधितयो मूर्च्छिता तमो