हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: प्रस्तुतोमि तत् दृष्यं यद्दृष्ट्वा सर्वे भारतीया: प्रसन्नतामनुभविष्यन्ति । भवन्त: चिन्तयन् सन्ति यत् तावत अहं किं दर्शयितुम् इच्छामि । स्वयमेव पश्यन्तु । अस्ति एतत् दृष्यं लखनउनगरस्य, निरालानगरक्षेत्रस्य शिशुमन्दिरे आयोजितस्य 10 दिवसीयसंस्कृतआवासीयप्रशिक्षणशिविररस्य , यत्र सम्भवत: 250 प्रशिक्षार्थय: 10 दिवसपर्यन्तं संस्कृतसम्भाषणस्य शिक्षां गृहीतवन्त:। शिविरआयोजनस्य नवमे दिने नगरभ्रमणम् आयोजितम् , सरस्वतीशिशुमन्दिरत: श्रीरामकृष्णमठम् । वदतु संस्कृतम्, जयतु भारतम् । जयतु जयतु संस्कृत भाषा, वदतु वदतु संस्कृतभाषा । ग्रामे ग्रामे नगरे नगरे संस्कृत भाषा इति उद्घोषात् सम्पूर्ण विश्व जनु गुंजायमान: आसीत् । शिविरायोजनस्य दशमे दिने प्रात: 3वादने भारतमातु: मानचित्रे सर्वे छात्रा: शिक्षका: च पुष्पार्पणं कृतवन्त: । भारतमातु: मानचित्रं दीपै: सज्जितं कृतम् । भवन्त: अस्मिन् चित्रे भारतमातु: पवित्रविग्रह: द्रष्टुं शक्नुवन्ति । सार्धं भोजनं कुर्वन्त: छात्रा:। अनेन प्रका