Skip to main content

चन्‍द्रे जलम् अस्ति इति वाराहमिहिरेण षष्‍ठसताब्‍द्याम् एव सम्‍पादितम् आसीत्।।




हिन्दी भाषायां पठितुं अत्र बलाघात: करणीय:।।


किंचित कालपूर्वम् एव भारतस्‍य चन्‍द्रयानेन् प्रमाणितं यत् चन्‍द्रे जलम् अस्ति एव।  इत: पूर्वं नासावैज्ञानिका: एतस्‍य अन्‍वेषणं बहु वारं कृतवन्‍त: किन्‍तु चन्‍द्रे जलम् अस्ति इत्‍येतस्मिन् विषये ते किमपि वक्‍तुं न शक्‍तवन्‍त: । अस्‍य विषयस्‍य अन्‍वेषणं कर्तुं भारतदेश: चन्‍द्रयानम् इति कश्‍चन् गगननौका प्रेषितवान् तथा सप्रमाणेन् चन्‍द्रे जलम् अस्ति इति रहस्‍योद्घाटनं कृतवान् ।
 य: विषय: अद्य नूतन वैज्ञानिकै: उद्धृत: प्रमाणित: च स: विषय: अस्‍माकं भारतस्‍य एव खगोलविद: सहस्राधिकेभ्‍य: वर्षेभ्‍य: (6तमे शताब्‍दे:) पूर्वम् एव स्‍वग्रन्थे लिखितवान् आसीत्।
तदा गगनस्‍य अटनं कर्तुं गगननौका: न आसन्, नैव कश्चित् अन्‍यं साधनम् एव आसीत् अस्‍य विषयस्‍य ज्ञानं कर्तुम्। किन्‍तु तदा यत् वचनं प्रमाणितं तद् वचनम् अद्य आगत्‍य सर्वै: स्‍वीकृतम्।
प्रशिद्ध: भारतीय: खगोलविद: वाराहमिहिर: चन्द्रे प्रकाशस्‍योत्‍पत्ति: कथम् इति कथयन् वदति- 
             ''सलिलमये शशिनि खेर्दीधितयो मूर्च्छिता तमो नैश्‍यम्। 
             क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्‍यान्‍त:।।'' इति- (बृहत्‍संहिता-4)
चन्‍द्रे यत् जलमयत्‍वं दृश्‍यते तस्‍मात् एव सूर्यकिरणस्‍य प्रतिफलनं कौमुद्या: च उत्‍पत्ति: भवति इति तस्‍य कथनस्‍य सार:।। 
1030तमे वर्षे अल्‍बरूनि: नाम खगोलशास्‍त्रज्ञ: भारतम् आगत्‍य अत्रत्‍यान् विचारान् ज्ञात्‍वा स्‍वीये ''ऐहिक् म लिल् हिन्‍दु'' इत्‍येतस्मिन् महाग्रन्‍थे वराहमिहिरादिभि: उक्‍तं सर्वं संगृहीतवान् अस्ति।
 तत्र स: लिखति- जलांशकारणत: एव चन्‍द्रे शीतलता परिदृश्‍यते, सूर्यकिरणा: चन्‍द्रतले प्रतिफलनं प्राप्‍य प्रकाशन्‍ते इति वराहमिहिर: बृहत्‍संहितायाम् उक्‍तवान् अस्ति इति। (अल्‍बेरूनीस् इण्डिया, अनुवाद:- एड्कर्ससच्यौ पृष्‍ठसंख्‍या -370)
प्राचीनकाले वैज्ञानिकसाधनानि, अन्‍यग्रहं प्रति प्रयाणं वा असम्‍भवम् आसीत् तथापि पूर्वजै: ऋषिभि: सूर्यचन्‍द्रादीनां गतिस्‍वरूपादय: निर्दुष्‍टतया उक्‍ता: सन्ति। तै: उक्‍तेन क्रमेण या गणना क्रियते तदनुगुणम् एव सूर्य-चन्‍द्रादीनाम् उदय-अस्‍तादय: अद्यापि भवन्ति, इत्‍यत: स्‍पष्‍टं यत् तेषां कथने वैज्ञानिकता अस्ति एव इति। 


एवं विधा बहूनां सिद्धान्तानां प्रतिपादनं अस्‍माकं मनीषिभि: पूर्वं एव कृतं आसीत्। 
साम्‍प्रतं ये वदन्ति यत् भारते किमपि नास्ति अथवा भारतदेश:  अन्‍यदेशानाम्  अनुशरणं करोति तेषां मुखपिधानं कर्तुं अस्‍माभि: अस्‍माकं ग्रन्‍थानां गहनाध्‍ययनम् आवश्‍यकम् एव इति। 
अत: एतेषां तथ्‍यानां संकलनं सर्वै: अपि करणीयम् ।।
अस्‍माकं संस्‍कृति: अस्‍माभि: एव रक्षणीया।। 


।।जयतु भारतम्, जयतु संस्‍कृतम्।।
                                                  सम्‍भाषण सन्‍देश पुस्‍तकात् साभार गृहीत:
भवदीय:- आनन्‍द:

Comments

Popular posts from this blog

हाथी धूल क्यो उडाती है?

केहि कारण पान फुलात नही॥? केहि कारण पीपल डोलत पाती॥? केहि कारण गुलर गुप्त फूले ॥? केहि कारण धूल उडावत हाथी॥? मुनि श्राप से पान फुलात नही॥ मुनि वास से पीपल डोलत पाती॥ धन लोभ से गुलर गुप्त फूले ॥ हरी के पग को है ढुधत हाथी..

जूजू के पीछे के रियल चेहरे

हिन्दुस्तान का दर्द आज आपको बताने जा रहा है उन कलाकारों के बारे में जिनके काम की बदोलत ''जूजू'' ने सभी के दिलों मे जगह बना ली है..तो जानिए इन कलाकारों के बारे में और आपको यह जानकारी कैसी लगी अपनी राय से अबगत जरुर कराएँ बहुत ही क्यूट, अलग, और मज़ेदार से दिखने वाले जूजू असल में इंसान ही हैं, बस उनको जूजू के कॉस्टयूम पहना दिए गए है। पर ये करना इतना आसान नहीं था, जिस तरह का कॉस्टयूम और एक्ट शूट किए जाने थे उनमे हर मुमकिन कला और रचनात्मकता का प्रयोग किया जाना था। जूजू के पीछे के असल कलाकार कौन है आइये जानते हैं - प्रार्थना सुनिए विज्ञापन- इस विज्ञापन दो जूजू एक पेड़ से लटके दिखाए गए हैं और नीचे एक खाई है। उनमे से एक गिर जाता है और दूसरा अपना फोन निकलकर एक प्रार्थना सुनाता है जिस से की उस के दोस्त की आत्मा को शांति मिल सके। इस विज्ञापन में हैं ये दो कलाकार- रोमिंग विज्ञापन- इस में एक जूजू अपनी गर्लफ्रेंड को खुश करने के लिए फ़ोन पर उससे बातें करता रहता है चाहे वो दुनिया के किसी भी कोने में हो। इस विज्ञापन में सबसे बड़ी चुनौती थी एफ्फिल टावर और पिरा...