Skip to main content

वेदानां विषये कानिचन् रोचकं महत्‍तत्‍वानि- अवश्‍यं पठेयु:।।


।। हिन्‍दी भाषायां पठितुं अत्र बलाघात: करणीय: ।।

             सनातन धर्मस्‍य प्राणवत्, विश्‍वस्‍य महानतम: आदिग्रन्‍थ: ''वेद'' न केवलं हिन्‍दुधर्मस्‍य अपितु सर्वेषां धर्माणां मूलम् अस्ति । ''वेदोखिलो धर्ममूलम्'' अर्थात् समेषां धर्माणां उत्‍पत्ति: अनेन एव अभवत् इति ।

             अद्य अस्मिन् लेखे अहं वेदानां विषये केचन महत्‍वपूर्ण तथ्‍यानां उद्घाटनं करोमि ।    एते विषया: ते सर्वे ज्ञायेयु: ये धर्मविषये जिज्ञासमाना: सन्ति, इत्‍यपि उक्‍तमेव अस्ति- ''धर्मजिज्ञासमानानां प्रमाणं परमं श्रुति:'' ।

           वस्‍तुत: वेदानां प्रादुर्भाव: श्रृष्‍ट्यारम्‍भे एव अभवत किन्‍तु केचन् पाश्‍चात्‍यीयानां दुराग्रहकारणात् एव अस्‍माकं विद्वान्‍स: अपि वेदानां रचनाकालं केवलं विगत चतुर्पंच सहस्र वर्षाणि एव मन्‍यन्‍ते । ते अवधानं न ददति यत् वेदानां परम्‍परा अपि वर्णिता अस्ति । अनेन क्रमेण ईश्‍वरेण ब्रह्मा, तेन वशिष्‍ठ अपि च अनेनेव क्रमेण शक्ति, पराशर , द्वैपायन: च वेदानां ज्ञानं प्राप्‍तवान् ।  वेदानां विस्‍तारकारणात् एव तस्‍य नाम वेदव्‍यास: इति अभवत ।

          वेदेषु प्राचीनतम: ऋग्‍वेद: अस्ति । इत्‍यपि प्राप्‍यते यत् सर्वप्रथम: केवलं ऋग्‍वेद: एव आसीत् , पठन-पाठनसारल्‍यहेतु: एव द्वैपायन: अस्‍य विस्‍तारं चतुर्षु वेदेषु कृतवान अत: तस्‍य नाम व्‍यास इति अभवत् ।  अत्र अहं ऋग्‍वेद विषये कानिचन् महत्‍तत्‍वानां उद्घाटनं करोमि । विज्ञा: स्‍वविचारान अवश्‍य दद्यु: ।


  1. महाभाष्‍य (पश्‍पसाह्निक) अनुसारं ऋग्‍वेदस्‍य एकविंशति: (21) शाखा: आसन् । एताषु शाखासु चरणव्‍यूह ग्रन्‍थानुसारं पंच (5) शाखा: (शाकल, बाश्‍कल, आश्‍वलायन, शांखायन, माण्‍डूकायन) मुख्‍या: सन्ति । यासु साम्‍प्रतं केवलं शाकल शाखा एव प्राप्‍यते ।
  2. ऋग्‍वेदस्य (शाकल शाखा) विभाजनं द्विधा, अष्‍टक क्रमेण, मण्‍डल क्रमेण च कृतं अस्ति ।
  3. अष्‍टक क्रमे , अष्‍ट अष्‍टकेषु अष्‍ट-2 अध्‍याया: , प्रत्‍ये‍कस्मिन् अध्‍याये केचन् वर्गा: , प्रत्‍येकवर्गे केचन ऋचा: सन्ति । अनेन क्रमेण सम्‍पूर्ण  2006 वर्गा: 10417 ऋचा: च सन्ति । शौनकाचार्यस्‍य अनुक्रमण्‍यां अस्‍य पूर्णसंख्‍या 10580-1/4 इति अस्ति । ''ऋचां दशसहस्राणि ऋचां पंचशतानि च, ऋचामशीति: पादश्‍च पारणं सम्‍प्रकीर्तितम्'' ।
  4. मण्‍डल क्रम: अतिप्रचलित: अस्ति । एतस्‍यानुसारं ऋग्‍वेद: दश मण्‍डलेषु विभक्‍त: अस्ति । प्रत्‍येकेषु मण्‍डलेषु विभिन्‍न अनुवाका: , तेषु कानिचन् सूक्‍तानि, प्रत्‍येकेषु सूक्‍तेषु केचन् मन्‍त्रा: सन्ति । औसतसंख्‍या पंच अस्ति ।  एवं विधा सम्‍पूर्णं 1028 सूक्‍तानि सन्ति येषु 11 खिल सूक्‍तानि सन्ति ।
  5. प्रथम मण्‍डलस्‍य द्रष्‍टार: शतार्चिननामधारिण: सन्ति ।
  6. 2 त: 8 पर्यन्‍तं वंशमण्‍डल इति संज्ञया अभिहिता: ।
  7. नवम मण्‍डलं सोम, पवमान मण्‍डलं वा कथ्‍यते । अस्‍य मण्‍डलस्‍य सर्वाणि सूक्‍तानि सोम देवं समर्पितमस्ति ।
  8. दशम मण्‍डलस्‍य नासदीय सूक्‍तपर्यन्तं सूक्‍तानि महासूक्‍तानि, अनन्‍तरं क्षुद्रसूक्‍तानि इति अथ च एतेषां द्रष्‍टार: अपि एतया संज्ञया एव अभिहिता: ।
  9. ऋग्‍वेदस्‍य प्रधानदेव: इन्‍द्र: अस्ति । अस्‍य 250 सम्‍पूर्णसूक्‍तेषु अपि च अन्‍येषु आंशिकरूपेण अर्चना कृता अस्ति ।
  10. ऋग्‍वेदे समस्‍तमण्‍डलानां प्रारम्भिकसूक्तानि अग्निं समर्पितमस्ति । अग्नि: ऋग्‍वेदस्‍य द्वितीय: प्रधानदेव: अस्ति । अस्‍य 200 सम्‍पूर्ण सूक्‍तेषु अन्‍यत्र च आंशिक रूपेण अर्चना कृतास्ति ।
  11. ऋग्‍वेदस्‍य रक्षार्थं, अपरिवर्तनीयं भूयात् अत: अपि सूक्‍तानां शब्‍दानाम् अपि गणना कृतास्ति । शौनकानुक्रमणी मध्‍ये एषा संख्‍या 153826 अस्ति । ''शाकल्‍यदृष्‍टे: पदलक्षमेकं सार्धं च वेदे त्रिसहसयुक्‍तम् , शतानि चाष्‍टौ दशकद्वयं च पदानि षट् चेति हि चर्चितानि ।'' (अनुक्रमणी 45)
  12. शब्‍दानां एव न अपितु वर्णानाम् अपि गणना कृता अस्ति । अनुक्रमणी अनुसारं एषा संख्‍या 432000 अस्ति । ''वृहतीसहस्राण्‍येतावत्‍यो हर्चो या: प्रजापति सृष्‍टा:'' (शत0 ब्रा0-10,4,2,23), ''चत्‍वारिंशतसहस्राणि द्वात्रिंशच्‍चाक्षरसहस्राणि'' - (शौनक-वाकानुक्रमणी)
  13. ऋग्‍वेदस्‍य प्रथम अध्‍यापनं वेदव्‍यास: स्‍वशिष्‍यं पैलं प्रति कृतवान् । ''तत्रगर्वेदधर: पैल:''
  14. ऋग्‍वेदस्‍य दशममण्‍डलस्‍य ऋषय: एव तस्‍य देवतार: अपि सन्ति ।
  15. मन्‍त्राणां दर्शने महिलानाम् अपि सहयोग: अस्ति । तासु अगस्‍त्‍यपत्‍नी लोपामुद्रा, महर्षि अम्‍भृणपुत्री वाक् इत्‍ययो: नाम विशेष उल्‍लेखनीय: अस्ति ।

एवंविधा ऋग्‍वेदविषये अत्र दत्‍त: सन्ति केचन् महद्विषया: । पाठकानां विचाराणां स्‍वागतमस्ति ।

।। जयतु वेदान् । जयतु भारतम् ।।

Comments

  1. life me aaj 12 saal baad sanskrit ka waktavya padne ko mila , nice

    ReplyDelete
  2. संस्‍कृत विषयक श्रद्धा के लिये धन्‍यवाद

    ReplyDelete

Post a Comment

आपका बहुत - बहुत शुक्रिया जो आप यहाँ आए और अपनी राय दी,हम आपसे आशा करते है की आप आगे भी अपनी राय से हमे अवगत कराते रहेंगे!!
--- संजय सेन सागर

Popular posts from this blog

हाथी धूल क्यो उडाती है?

केहि कारण पान फुलात नही॥? केहि कारण पीपल डोलत पाती॥? केहि कारण गुलर गुप्त फूले ॥? केहि कारण धूल उडावत हाथी॥? मुनि श्राप से पान फुलात नही॥ मुनि वास से पीपल डोलत पाती॥ धन लोभ से गुलर गुप्त फूले ॥ हरी के पग को है ढुधत हाथी..

Warts, Moles and Skin Tags - Can They Develop Into Cancer?

Skin tags pose no real danger. They will not develop into a cancerous growth. However sometimes they may be irritating especially if they are found around the collar. You may even decide to remove a skin tag for cosmetic reasons. When one considers warts, particular attention needs to be taken in the case of genital warts, since these may be transmitted to others. Moreover sometimes genital warts may develop into a cancerous growth. Therefore if you have genital warts you should consult your physician right away. Moles may develop into a cancerous growth. It is therefore important to take appropriate care of any changes that can occur to any mole. If you have many moles on you body it is not a bad idea to have regular checks. Take particular attention after summer because the sun rays may make a mole develop into melanoma or cancer of the skin. Consider any changes that you notice to any of your moles. Specifically you must consult your physician if a mole changes it'...

जूजू के पीछे के रियल चेहरे

हिन्दुस्तान का दर्द आज आपको बताने जा रहा है उन कलाकारों के बारे में जिनके काम की बदोलत ''जूजू'' ने सभी के दिलों मे जगह बना ली है..तो जानिए इन कलाकारों के बारे में और आपको यह जानकारी कैसी लगी अपनी राय से अबगत जरुर कराएँ बहुत ही क्यूट, अलग, और मज़ेदार से दिखने वाले जूजू असल में इंसान ही हैं, बस उनको जूजू के कॉस्टयूम पहना दिए गए है। पर ये करना इतना आसान नहीं था, जिस तरह का कॉस्टयूम और एक्ट शूट किए जाने थे उनमे हर मुमकिन कला और रचनात्मकता का प्रयोग किया जाना था। जूजू के पीछे के असल कलाकार कौन है आइये जानते हैं - प्रार्थना सुनिए विज्ञापन- इस विज्ञापन दो जूजू एक पेड़ से लटके दिखाए गए हैं और नीचे एक खाई है। उनमे से एक गिर जाता है और दूसरा अपना फोन निकलकर एक प्रार्थना सुनाता है जिस से की उस के दोस्त की आत्मा को शांति मिल सके। इस विज्ञापन में हैं ये दो कलाकार- रोमिंग विज्ञापन- इस में एक जूजू अपनी गर्लफ्रेंड को खुश करने के लिए फ़ोन पर उससे बातें करता रहता है चाहे वो दुनिया के किसी भी कोने में हो। इस विज्ञापन में सबसे बड़ी चुनौती थी एफ्फिल टावर और पिरा...